Shri shiv guru Stotram | श्री शिव गुरु स्तोत्रम्
श्रीशिवगुरुस्तोत्रम् संविद्रूपाय शान्ताय शम्भवे सर्वसाक्षिणे । शेमुषी - सिद्धरूपाय शिवाय गुरवे नमः ॥ १॥ त्रैलोक्यसम्पदालेख्य - समुल्लेखनभित्तये । सच्चिदानन्दरूपाय शिवाय गुरवे नमः ॥ २॥ देशकालानवच्छिन्न - दृष्टिमात्रस्वरूपिणे । देशिकौघत्रयान्ताय शिवाय गुरवे नमः ॥ ३॥ विश्वात्मने तैजसाय प्राज्ञाय परमात्मने । विश्वावस्थाविहीनाय शिवाय गुरवे नमः ॥ ४॥ विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् । प्रकाशानां प्रकाशाय शिवाय गुरवे नमः ॥ ५॥ परतन्त्राय भक्तानां स्वतन्त्राय दयालवे । विद्यावतारदेहाय शिवाय गुरवे नमः ॥ ६॥ पाशच्छेद - प्रवीणाय प्रपञ्चोपशमाय च । प्रणवाब्जपतङ्गाय शिवाय गुरवे नमः ॥ ७॥ नवाय नवरूपाय नवनादविलासिने । निरञ्जनपदेशाय शिवाय गुरवे नमः ॥ ८॥ संविन्मुद्राय भद्राय सर्वविद्याप्रदायिने । संवित्सिंहासनस्थाय शिवाय गुरवे नमः ” ॥ ९॥ सर्वागममोक्तिकलितं स्तोत्रं शिवगुरोः परम् । संवित्साधनसारांशं यः पठेत् सिद्धिभाग् भवेत् १०॥ इति श्रीशिवगुरुस्तोत्रं सम्पूर्णम् ।