Bhairav Kavach | तांत्रोक्त भैरव कवच
तांत्रोक्त भैरव कवच
*ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।*
*पातु मां बटुको देवो भैरवः सर्वकर्मसु ।।
*पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।
*आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ।।
*नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।
*वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ।।
*भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।
**संहार भैरवः पायादीशान्यां च महेश्वरः ।।
*ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।
*सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।।
*रामदेवो वनान्ते च वने घोरस्तथावतु ।
*जले तत्पुरुषः पातु स्थले ईशान एव च ।।
*डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।
*हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ।।
*पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।
*मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ।।
*महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।
*वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।।
*कालभैरव अष्टकम्:-*
*देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं*
*व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्*
*नारदादियोगिवृन्दवन्दितं दिगंबरं*
*काशिकापुराधिनाथ कालभैरवं भजे॥ १॥*
*भानुकोटिभास्वरं भवाब्धितारकं परं*
*नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।*
*कालकालमंबुजाक्षमक्षशूलमक्षरं*
*काशिका पुराधिनाथ कालभैरवं भजे॥२॥*
*शूलटङ्कपाशदण्डपाणिमादिकारणं*
*श्यामकायमादिदेवमक्षरं निरामयम् ।*
*भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं*
*काशिका पुराधिनाथ कालभैरवं भजे ॥३॥*
*भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं*
*भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।*
*विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं*
*काशिकापुराधिनाथ कालभैरवं भजे ॥४॥*
*धर्मसेतुपालकं त्वधर्ममार्गनाशकं*
*कर्मपाशमोचकं सुशर्मदायकं विभुम् ।*
*स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं*
*काशिकापुराधिनाथ कालभैरवं भजे ॥ ५॥*
*रत्नपादुकाप्रभाभिरामपादयुग्मकं*
*नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।*
*मृत्युदर्पनाशनं कराळदंष्ट्रमोक्षणं*
*काशिकापुराधिनाथ कालभैरवं भजे ॥६॥*
*अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं*
*दृष्टिपातनष्टपापजालमुग्रशासनम् ।*
*अष्टसिद्धिदायकं कपालमालिकन्धरं*
*काशिकापुराधिनाथ कालभैरवं भजे ॥७॥*
*भूतसङ्घनायकं विशालकीर्तिदायकं*
*काशिवासलोकपुण्यपापशोधकं विभुम् ।*
*नीतिमार्गकोविदं पुरातनं जगत्पतिं*
*काशिकापुराधिनाथ कालभैरवं भजे ॥८॥*
*कालभैरवाष्टकं पठन्ति ये मनोहरं*
*ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।*
*शोकमोहदैन्यलोभकोपतापनाशनं*
*ते प्रयान्ति कालभैरवाङ्घ्रिसन्निधिं ध्रुवम् ॥९॥*
*इति श्रीमच्छङ्कराचार्यविरचितं कालभैरवाष्टकं संपूर्णम् ॥*
*(समाप्त)*
Comments
Post a Comment